तुलसी विवाह मंगलाष्टक लिरिक्स (Tulsi Vivah Mangalashtak Lyrics in hindi) -
ॐ श्री मत्पंकजविष्टरो
हरिहरौ वायुमर्हेन्द्रोऽनलः
चन्द्रो भास्कर वित्तपाल
वरुण प्रताधिपादिग्रहाः
प्रद्यम्नो नलकूबरौ सुरगजः
चिन्तामणिः कौस्तुभः
स्वामी शक्तिधरश्च लांगलधरः
कुवर्न्तु वो मंगलम् 1
गंगा गोमतिगोपतिगर्णपतिः
गोविन्दगोवधर्नौ
गीता गोमयगोरजौ गिरिसुता
गंगाधरो गौतमः
गायत्री गरुडो गदाधरगया
गम्भीरगोदावरी
गन्धवर्ग्रहगोपगोकुलधराः
कुवर्न्तु वो मंगलम् 2
नेत्राणां त्रितयं महत्पशुपतेः
अग्नेस्तु पादत्रयं
तत्तद्विष्णुपदत्रयं त्रिभुवने
ख्यातं च रामत्रयम्
गंगावाहपथत्रयं सुविमलं
वेदत्रयं ब्राह्मणम्
संध्यानां त्रितयं द्विजैरभिमतं
कुवर्न्तु वो मंगलम् 3
बाल्मीकिः सनकः सनन्दनमुनिः
व्यासोवसिष्ठो भृगुः
जाबालिजर्मदग्निरत्रिजनकौ
गर्गोऽ गिरा गौतमः
मान्धाता भरतो नृपश्च सगरो
धन्यो दिलीपो नलः
पुण्यो धमर्सुतो ययातिनहुषौ
कुवर्न्तु वो मंगलम् 4
गौरी श्रीकुलदेवता च
सुभगा कद्रूसुपणार्शिवाः
सावित्री च सरस्वती च
सुरभिः सत्यव्रतारुन्धती
स्वाहा जाम्बवती च रुक्मभगिनी
दुःस्वप्नविध्वंसिनी
वेला चाम्बुनिधेः समीनमकरा
कुवर्न्तु वो मंगलम् 5
गंगा सिन्धु सरस्वती च
यमुना गोदावरी नमर्दा
कावेरी सरयू महेन्द्रतनया
चमर्ण्वती वेदिका
शिप्रा वेत्रवती महासुरनदी
ख्याता च या गण्डकी
पूर्णाः पुण्यजलैः समुद्रसहिताः
कुवर्न्तु वो मंगलम् 6
लक्ष्मीः कौस्तुभपारिजातकसुरा
धन्वन्तरिश्चन्द्रमा
गावः कामदुघाः सुरेश्वरगजो
रम्भादिदेवांगनाः
अश्वः सप्तमुखः सुधा हरिधनुः
शंखो विषं चाम्बुधे
रतनानीति चतुदर्श प्रतिदिनं
कुवर्न्तु वो मंगलम् 7
ब्रह्मा वेदपतिः शिवः पशुपतिः
सूयोर् ग्रहाणां पतिः
शुक्रो देवपतिनर्लो नरपतिः
स्कन्दश्च सेनापतिः
विष्णुयर्ज्ञपतियर्मः पितृपतिः
तारापतिश्चन्द्रमा
इत्येते पतयस्सुपणर्सहिताः
कुवर्न्तु वो मंगलम् 8
इति मंगलाष्टक समाप्त
If you liked this post please do not forget to leave a comment. Thanks