श्री मत्स्य स्तोत्र लिरिक्स (Matsya Stotra Lyrics in Hindi) -
नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहायभूतानां धत्से रूपं जलौकसाम् ॥ १ ॥
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २ ॥
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३ ॥
न तेऽरविन्दाक्षपदोपसर्पणं
मृषा भावेत्सर्व सुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतां
मदीदृशो यद्वपुरद्भुतं हि नः ॥ ४ ॥
|| इति श्रीमद्भागवते चतुर्विंशतितमाध्याये मत्स्य स्तोत्रम् ॥
If you liked this post please do not forget to leave a comment. Thanks