ऋण मोचन नृसिंह स्तोत्र लिरिक्स (Rin Mochan Narasimha Stotra in Hindi) - नमामि ऋण मुक्तये Sanskrit Stotra - Bhaktilok

Deepak Kumar Bind

 

ऋण मोचन नृसिंह स्तोत्र लिरिक्स (Rin Mochan Narasimha Stotra in Hindi) - 


ध्यानम् 

वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।

यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥


स्तोत्रम्

देवता कार्यसिद्ध्यर्थं सभास्तम्भ समुद्भवम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ १ ॥


लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ २ ॥


आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ३ ॥


स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ४ ॥


सिंहनादेन महता दिग्दन्तिभयनाशनम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ५ ॥


प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ६ ॥


क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ७ ॥


वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।

श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ८ ॥


य इदं पठते नित्यं ऋणमोचनसञ्ज्ञितम् ।

अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥


इति ऋण विमोचन नृसिंह स्तोत्रम् ।


Also Read Krishna Bhajan:

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !