संकट नाशन गणेश स्तोत्रम् (Sankata Nashana Ganesha Stotram in Hindi) - Ganesh Strotra - Bhaktilok

Deepak Kumar Bind

 

संकट नाशन गणेश स्तोत्रम् (Sankata Nashana Ganesha Stotram in Hindi) - 

|| नारद उवाच ||


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |

भक्तवसं स्मरेन्नित्यं आयुष्कामार्थसिद्धये || 1 ||


प्रथमं वक्रतुण्डं च एकदंतं द्वितीयकम् |

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् || 2 ||


लम्बोदरम पंचम च षष्ठं विकटमेव च |

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम् || 3 ||


नवमं बालचंद्रं च दशमं तु विनायकम् |

एकादशं गणपतिं द्वादशं तु गजाननं || 4 ||


द्वादशैतानि नामानि त्रिसंध्यं यः पथेन्नरः |

न च विघ्नभयं तस्य सर्वसिद्धिकारं परं || 5 ||


विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् |

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् || 6 ||


जपेद्गणपतिस्तोत्रम् षाद्भिर्मसैः फलं लभेत् |

संवत्सरेण सिद्धिं च लभते नात्र संशयः || 7 ||


अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |

तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः || 8 ||

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !