शुक्लाम्बरधरं विष्णुं लिरिक्स (Shuklambara Dharam Vishnum Lyrics in Hindi) -
शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये ।
शान्ताकारं भुजगशयनं
पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं
मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं
योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं
सर्वलोकैकनाथम् ।
औषधे चिंतये विष्णुम
भोजने च जनार्धनम
शयने पद्मनाभं च
विवाहे च प्रजापतिम
युद्धे चक्रधरम देवं
प्रवासे च त्रिविक्रमं ।
नारायणं तनु त्यागे
श्रीधरं प्रिय संगमे
दुःस्वप्ने स्मर गोविन्दम
संकटे मधुसूधनम ।
कानने नारासिम्हम च
पावके जलाशयिनाम
जलमध्ये वराहम च
पर्वते रघु नन्दनं
गमने वामनं चैव
सर्व कार्येशु माधवं ।
षोडशैतानी नमानी
प्रातरुत्थाय यह पठेत
सर्वपापा विर्निमुक्तो
विष्णुलोके महीयते ||
If you liked this post please do not forget to leave a comment. Thanks