श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम (Dakshinamurthy Navaratna Mala Stotram Lyrics in Hindi) - Saraswathi Agasthiyar - Bhaktilok

Deepak Kumar Bind

 

श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम (Dakshinamurthy Navaratna Mala Stotram Lyrics in Hindi) - 


मूलेवटस्य मुनिपुङ्गवसेव्यमानं

मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।

मन्दस्मितं मधुरवेषमुदारमाद्यं

तेजस्तदस्तु हृदये तरुणेन्दुचूडम् ॥ १ ॥


शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं

चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।

वीणां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै-

र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २ ॥


कर्पूरगात्रमरविन्ददलायताक्षं

कर्पूरशीतलहृदं करुणाविलासम् ।

चन्द्रार्धशेखरमनन्तगुणाभिराम-

मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३ ॥


द्युद्रोरधस्स्वर्णमयासनस्थं

मुद्रोल्लसद्बाहुमुदारकायम् ।

सद्रोहिणीनाथकलावतंसं

भद्रोदधिं कञ्चन चिन्तयामः ॥ ४ ॥


उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं

बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।

पिङ्गाक्षं मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतीं

भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५ ॥


श्रीकान्त द्रुहिणोपमन्यु तपन स्कन्देन्द्र नन्द्यादयः

प्राचीनागुरवोऽपि यस्य करुणालेशाद्गतागौरवम् ।

तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं

चिन्मुद्राकृतिमुग्धपाणिनलिनं चित्तं शिवं कुर्महे ॥ ६ ॥


कपर्दिनं चन्द्रकलावतंसं

त्रिणेत्रमिन्दु प्रतिमाक्षिताज्वलम् ।

चतुर्भुजं ज्ञानदमक्षसूत्र-

पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७ ॥


वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां

श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।

आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं

मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८ ॥


वटतरु निकटनिवासं पटुतर विज्ञान मुद्रित कराब्जम् ।

कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ ९ ॥


इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्र ।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !