श्री महाकाली स्तोत्र लिरिक्स (Mahakali Stotra Lyrics in Hindi) - Dr. Shoma Ghosh Kami Stotram - Bhaktilok

Deepak Kumar Bind

 

श्री महाकाली स्तोत्र लिरिक्स (Mahakali Stotra Lyrics in Hindi) - 


ध्यानम् ।


शवारूढां महाभीमां घोरदम्ष्ट्रां वरप्रदां

हास्ययुक्तां त्रिणेत्राञ्च कपाल कर्त्रिका करां ।

मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः

चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥


शवारूढां महाभीमां घोरदम्ष्ट्रां हसन्मुखीं

चतुर्भुजां खड्गमुण्डवराभयकरां शिवां ।

मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां

एवं सञ्चिन्तयेत्कालीं श्मशनालयवासिनीम् ॥


महाकाली स्तोत्र ।


ओं विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीं ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभाम् ॥


त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरान्विका ।

सुधात्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥


अर्थमात्रा स्थिता नित्या यानुच्छार्या विशेषतः ।

त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ॥


त्वयैतद्धार्यते विश्वं त्वयैतद् सृज्यते जगत् ।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥


विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥


महाविद्या महामाया महामेधा महास्मृतिः ।

महामोहा च भवती महादेवी महेश्वरी ॥


प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।

कालरात्रि-र्महारात्रि-र्मोहरात्रिश्च दारुणा ॥


त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।

लज्जा पुष्टिस्तथा तुष्टिः त्वं शान्तिः क्षान्तिरेव च ॥


खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।

शङ्खिनी चापिनी बाणा भुशुण्डी परिघा युधा ॥


सौम्या सौम्यतराशेषा सौम्येभ्यस्त्वतिसुन्दरी ।

परापराणां च परमा त्वमेव परमेश्वरी ॥


यच्च किञ्चिद्क्वचिद्वस्तु सदसद्वाखिलात्मिके ।

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥


यया त्वया जगत् स्रष्टा जगत्पात्यत्ति यो जगत् ।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥


विष्णुः शरीरग्रहणमहमीशान एव च ।

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥


सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥


प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥


त्वं भूमिस्त्वं जलं च त्वमसिहुतवह स्त्वं जगद्वायुरूपा ।

त्वं चाकाशम्मनश्च प्रकृति रसिमहत्पूर्विका पूर्व पूर्वा ॥


आत्मात्वं चासि मातः परमसि भगवति त्वत्परान्नैव किञ्चित् ।

क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥


कालाभ्रां श्यामलाङ्गीं विगलित चिकुरां खड्गमुण्डाभिरामां ।

त्रासत्राणेष्टदात्रीं कुणपगण शिरोमालिनीं दीर्घनेत्राम् ॥


संसारस्यैकसारां भवजननहरां भावितो भावनाभिः ।

क्षन्तव्यो मेऽपराधः प्रकटित वदने काम रूपे कराले ॥


|| इति श्री महाकाली स्तोत्र ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !