श्री शिवरक्षा स्तोत्रम् लिरिक्स (Shri Shiv Raksha Stotram Lyrics in Hindi) - Shiva Raksha Stotram - Bhaktilok

Deepak Kumar Bind


श्री शिवरक्षा स्तोत्रम् लिरिक्स (Shri Shiv Raksha Stotram Lyrics in Hindi) - 

   

। ॐ नमः शिवाय ।

अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः,

श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,

श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥


चरितं देवदेवस्य महादेवस्य पावनम् ।

अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१)


गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।

शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२)


गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः ।

नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३)


घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः ।

जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः ॥ (४)


श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः ।

भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५)


हृदयं शङ्करः पातु जठरं गिरिजापतिः ।

नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६)


सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः ।

ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः ॥ (७)


जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः ।

चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८)


एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् ।

स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥ (९)


ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।

दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् ॥ (१०)


अभयङ्कर-नामेदं कवचं पार्वतीपतेः ।

भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ॥ (११)


इमां नारायणः स्‍वप्ने शिवरक्षां यथादिशत् ।

प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ॥ (१२)


(इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा-स्तोत्रं सम्पूर्णम् ।)


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !