वसुदेव सुतं देवं स्तोत्र (Vasudeva Sutam Devam Kamsa Chanura Mardanam Stotra in Hindi) - Bhaktilok

Deepak Kumar Bind

 

वसुदेव सुतं देवं स्तोत्र (Vasudeva Sutam Devam Kamsa Chanura Mardanam Stotra in Hindi) - 


वसुदेवसुतं देवं कंसचाणूरमर्दनम्

देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् । 1 ।


आतसीपुष्पसंकाशम् हारनूपुरशोभितम्

रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम् । 2 ।


कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्

विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम् । 3 ।


मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्

बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम् । 4 ।


उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्

यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् । 5 ।


रुक्मिणीकेलिसंयुक्तं पीतांबरसुशोभितम्

अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम् । 6 ।


गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम्

श्री निकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् । 7 ।


श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्

शङ्खचक्रधरं देवं कृष्णं वंदे जगद्गुरुम् । 8 ।


कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्

कोटिजन्मकृतं पापं स्मरणेन विनष्यति । 9 ।

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !