द्वादश ज्योतिर्लिंग स्तोत्र (Dwadash Jyotirling Stotra Lyrics in Hindi) - Jyotirlinga Stotram - Bhaktilok

Deepak Kumar Bind

 

द्वादश ज्योतिर्लिंग स्तोत्र (Dwadash Jyotirling Stotra Lyrics in Hindi) - 


|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १ ||

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |

तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २ ||

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३ ||

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |

सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४ ||

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् |

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि || ५ ||

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये || ६ ||

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |

सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे || ७ ||

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |

यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे || ८ ||

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः |

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि || ९ ||

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |

सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि || १० ||

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् |

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये || ११ ||

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये || १२ ||

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |

स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ||

|| इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !