दामोदर अष्टकम लिरिक्स (Damodar Astakam Lyrics in Hindi) - Damodarashtakam - Bhaktilok

Deepak Kumar Bind

 

दामोदर अष्टकम लिरिक्स  (Damodar Astakam Lyrics in Hindi) - 


नमामीश्वरं सच्चिदानंदरूपं

लसत्कुण्डलं गोकुले भ्राजमानं

यशोदाभियोलूखलाद्धावमानं

परामृष्टमत्यं ततो द्रुत्य गोप्या ॥ १॥


रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्

कराम्भोज-युग्मेन सातङ्क-नेत्रम्

मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ

स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥


इतीदृक् स्वलीलाभिरानंद कुण्डे

स्व-घोषं निमज्जन्तम् आख्यापयन्तम्

तदीयेशितज्ञेषु भक्तिर्जितत्वम

पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥ ३॥


वरं देव! मोक्षं न मोक्षावधिं वा

न चान्यं वृणेऽहं वरेशादपीह

इदं ते वपुर्नाथ गोपाल बालं

सदा मे मनस्याविरास्तां किमन्यैः ॥ ४॥


इदं ते मुखाम्भोजम् अत्यन्त-नीलैः

वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या

मुहुश्चुम्बितं बिम्बरक्ताधरं मे

मनस्याविरास्तामलं लक्षलाभैः ॥ ५॥


नमो देव दामोदरानन्त विष्णो

प्रभो दुःख-जालाब्धि-मग्नम्

कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु

गृहाणेष मामज्ञमेध्यक्षिदृश्यः ॥ ६॥


कुबेरात्मजौ बद्ध-मूर्त्यैव यद्वत्

त्वया मोचितौ भक्ति-भाजौ कृतौ च

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ

न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ ७॥


नमस्तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने

नमो राधिकायै त्वदीय-प्रियायै

नमोऽनन्त-लीलाय देवाय तुभ्यम् ॥ ८॥


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !