बटुक भैरव स्तोत्र (Batuk Bhairav Stotram Lyrics in Hindi) - by आचार्य अभिराम शास्त्री - Bhaktilok

Deepak Kumar Bind

 

बटुक भैरव स्तोत्र (Batuk Bhairav Stotram Lyrics in Hindi) - 


।। भैरव ध्यान ।।

वन्दे बालं स्फटिक-सदृशम् कुन्तलोल्लासि-वक्त्रम्।

दिव्याकल्पैर्नव-मणि-मयैः किंकिणी-नूपुराढ्यैः॥

दीप्ताकारं विशद-वदनं सुप्रसन्नं त्रि-नेत्रम्।

हस्ताब्जाभ्यां बटुकमनिशं शूल–दण्डौ दधानम्॥


।। भैरव मानस पूजन ।।

ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।

ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।

ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।


।। मूल स्तोत्र ।।

ॐ भैरवो भूत-नाथश्च भूतात्मा भूत-भावनः।

क्षेत्रज्ञः क्षेत्र-पालश्च क्षेत्रदः क्षत्रियो विराट् ॥


श्मशान-वासी मांसाशी खर्पराशी स्मरान्त-कृत्।

रक्तपः पानपः सिद्धः सिद्धिदः सिद्धि-सेवितः॥


कंकालः कालः-शमनः कला-काष्ठा-तनुः कविः।

त्रि-नेत्रो बहु-नेत्रश्च तथा पिंगल-लोचनः॥


शूल-पाणिः खड्ग-पाणिः कंकाली धूम्र-लोचनः।

अभीरुर्भैरवी-नाथो भूतपो योगिनी – पतिः॥


धनदोऽधन-हारी च धन-वान् प्रतिभागवान्।

नागहारो नागकेशो व्योमकेशः कपाल-भृत्॥


कालः कपालमाली च कमनीयः कलानिधिः।

त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्॥


त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय।

बटुको बटु-वेषश्च खट्वांग -वर – धारकः॥


भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः।

धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु – लोचनः॥


प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः।

अष्ट -मूर्तिर्निधीशश्च ज्ञान- चक्षुस्तपो-मयः॥


अष्टाधारः षडाधारः सर्प-युक्तः शिखी-सखः।

भूधरो भूधराधीशो भूपतिर्भूधरात्मजः॥


कपाल-धारी मुण्डी च  नाग- यज्ञोपवीत-वान्।

जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा॥


शुद्द – नीलाञ्जन – प्रख्य – देहः मुण्ड -विभूषणः।

बलि-भुग्बलि-भुङ्- नाथो बालोबाल – पराक्रम॥


सर्वापत् – तारणो दुर्गो दुष्ट- भूत- निषेवितः।

कामीकला-निधिःकान्तः कामिनी वश-कृद्वशी॥


जगद्-रक्षा-करोऽनन्तो माया – मन्त्रौषधी -मयः।

सर्व-सिद्धि-प्रदो वैद्यः प्रभ – विष्णुरितीव हि॥


।।फल-श्रुति।।


अष्टोत्तर-शतं नाम्नां भैरवस्य महात्मनः।

मया ते कथितं देवि रहस्य सर्व-कामदम् ।।


य इदं पठते स्तोत्रं नामाष्ट-शतमुत्तमम्।

न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा ।।


न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचिद्।

पातकेभ्यो भयं नैव पठेत् स्तोत्रमतः सुधीः ।।


मारी-भये राज-भये तथा चौराग्निजे भये।

औत्पातिके भये चैव तथा दुःस्वप्नजे भये ।।


बन्धने च महाघोरे पठेत् स्तोत्रमनन्य-धीः।

सर्वं प्रशममायाति भयं भैरव-कीर्तनात्।।


।।क्षमा-प्रार्थना।।


आवाहनङ न जानामि न जानामि विसर्जनम्।

पूजा-कर्म न जानामि क्षमस्व परमेश्वर।।


मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं सुरेश्वर।

मया यत्-पूजितं देव परिपूर्णं तदस्तु मे।।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !