संकटनाशन महागणपति स्तोत्रम् लिरिक्स (Sankatnashan Mahaganpati Stotram Lyrics in Hindi) - 108 Times ANURADHA PAUDWAL - Bhaktilok
संकटनाशन महागणपति स्तोत्रम् लिरिक्स (Sankatnashan Mahaganpati Stotram Lyrics in Hindi) - 108 Times ANURADHA PAUDWAL -
श्री गणेशाय नमः । नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेन्नित्यं आयुःकामार्थ सिद्धये ।।1।।प्रथमं वक्रतुंड च एकदंतं द्वितीयकम् ।तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।लंबोदरं पंचमं च षष्ठं विकटमेव च ।सप्तमं विघ्नराजेद्रं धूम्रवर्णं तथाष्टकम् ।।3।।नवमं भालचंद्रं च दशमं तु विनायकम् ।एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।न च विघ्न भयं तस्य सर्वसिद्धिकरं प्रभो ।।5।।विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।6।।जपेत् गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत् ।संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।8।।श्रीनारदपुराणे संकटनाशनं श्रीगणेशस्तोत्रं संपूर्णम् ।
If you liked this post please do not forget to leave a comment. Thanks