नमस्ते सदा वत्सले मातृभूमे! (Namaste Sada Vatsale Matruṛbhume Lyrics in Hindi) - Bhaktilok
नमस्ते सदा वत्सले मातृभूमे! (Namaste Sada Vatsale Matruṛbhume Lyrics in Hindi) -
नमस्ते सदा वत्सले मातृभूमे ,
त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।
महामंगले पुण्यभूमे त्वदर्थे ,
पतत्वेष कायो नमस्ते नमस्ते ॥१॥
प्रभो शक्तिमन् हिन्दुराष्ट्रांगभूता ,
इमे सादरं त्वां नमामो वयम् ,
त्वदीयाय कार्याय बद्धा कटीयम् ,
शुभामाशिषं देहि तत्पूर्तये ।
अजय्यां च विश्वस्य देहीश शक्तिम् ,
सुशीलं जगद् येन नम्रं भवेत् ,
श्रुतं चैव यत् कण्टकाकीर्णमार्गम् ,
स्वयं स्वीकृतं नः सुगंकारयेत् ॥२॥
समुत्कर्ष निःश्रेयसस्यैकमुग्रम् ,
परं साधनं नाम वीरव्रतम् ,
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा ,
हृदन्तः प्रजागर्तु तीव्राऽनिशम् ।
विजेत्री च नः संहता कार्यशक्तिर् ,
विधायास्य धर्मस्य संरक्षणम् ,
परं वैभवं नेतुमेतत् स्वराष्ट्रम् ,
समर्था भवत्वाशिषा ते भृशम् ॥३॥
॥ भारत माता की जय ॥
If you liked this post please do not forget to leave a comment. Thanks